Advertisement

नारायणीयं दशक 67 | Narayaniyam Dashak 67

नारायणीयं दशक 67 | Narayaniyam Dashak 67


स्फुरत्परानन्दरसात्मकेन त्वया समासादितभोगलीलाः ।
असीममानन्दभरं प्रपन्ना महान्तमापुर्मदमम्बुजाक्ष्यः ॥1॥

निलीयतेऽसौ मयि मय्यमायं रमापतिर्विश्वमनोभिरामः ।
इति स्म सर्वाः कलिताभिमाना निरीक्ष्य गोविन्द् तिरोहितोऽभूः ॥2॥

राधाभिधां तावदजातगर्वामतिप्रियां गोपवधूं मुरारे ।
भवानुपादाय गतो विदूरं तया सह स्वैरविहारकारी ॥3॥

तिरोहितेऽथ त्वयि जाततापाः समं समेताः कमलायताक्ष्यः ।
वने वने त्वां परिमार्गयन्त्यो विषादमापुर्भगवन्नपारम् ॥4॥

हा चूत हा चम्पक कर्णिकार हा मल्लिके मालति बालवल्यः ।
किं वीक्षितो नो हृदयैकचोरः इत्यादि तास्त्वत्प्रवणा विलेपुः ॥5॥

निरीक्षितोऽयं सखि पङ्कजाक्षः पुरो ममेत्याकुलमालपन्ती ।
त्वां भावनाचक्षुषि वीक्ष्य काचित्तापं सखीनां द्विगुणीचकार ॥6॥

त्वदात्मिकास्ता यमुनातटान्ते तवानुचक्रुः किल चेष्टितानि ।
विचित्य भूयोऽपि तथैव मानात्त्वया विमुक्तां ददृशुश्च राधाम् ॥7॥

ततः समं ता विपिने समन्तात्तमोवतारावधि मार्गयन्त्यः ।
पुनर्विमिश्रा यमुनातटान्ते भृशं विलेपुश्च जगुर्गुणांस्ते ॥8॥

तथा व्यथासङ्कुलमानसानां व्रजाङ्गनानां करुणैकसिन्धो ।
जगत्त्रयीमोहनमोहनात्मा त्वं प्रादुरासीरयि मन्दहासी ॥9॥

सन्दिग्धसन्दर्शनमात्मकान्तं त्वां वीक्ष्य तन्व्यः सहसा तदानीम् ।
किं किं न चक्रुः प्रमदातिभारात् स त्वं गदात् पालय मारुतेश ॥10॥

Post a Comment

और नया पुराने

Advertisement

Advertisement