गीतगोविंदं एकादशः सर्गः - सानंद दामोदरः | GITA GOVINDAM CHAPTER 11 - SANANDA DAMODARA


गीतगोविंदं एकादशः सर्गः - सानंद दामोदरः | GITA GOVINDAM CHAPTER 11 - SANANDA DAMODARA


॥ एकादशः सर्गः ॥
॥ सानंददामोदरः ॥

सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुंजशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ 59 ॥

॥ गीतं 20 ॥

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मंजुलवंजुलसीमनि केलिशयनमनुयातम् ॥
मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ 1 ॥

घनजघनस्तनभारभरे दरमंथरचरणविहारम् ।
मुखरितमणीमंजीरमुपैहि विधेहि मरालविकारम् ॥ 2 ॥

शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।
कुसुमशरासनशासनबंदिनि पिकनिकरे भज भावम् ॥ 3 ॥

अनिलतरलकिसलयनिकरेण करेण लतानिकुरंबम् ।
प्रेरणमिव करभोरु करोति गतिं प्रतिमुंच विलंबम् ॥ 4 ॥

स्फुरितमनंगतरंगवशादिव सूचितहरिपरिरंभम् ।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुंभम् ॥ 5 ॥

अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
चंडि रसितरशनारवडिंडिममभिसर सरसमलज्जम् ॥ 6 ॥

स्मरशरसुभगनखेन करेण सखीमवलंब्य सलीलम् ।
चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ 7 ॥

श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
हरिविनिहितमनसामधितिष्ठतु कंठतटीमविरामम् ॥ 8 ॥

सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यंगमालिंगनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिंताकुलः ।
स त्वां पश्यति वेपते पुलकयत्यानंदति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुंजे निकुंजे प्रियः ॥ 60 ॥

अक्ष्णोर्निक्षिपदंजनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।
धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुंजे सखि ध्वांतं नीलनिचोलचारु सदृशां प्रत्यंगमालिंगति ॥ 61 ॥

काश्मीरगौरवपुषामभिसारिकाणां आबद्धरेखमभितो रुचिमंजरीभिः ।
एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ 62 ॥

हारावलीतरलकांचनकांचिदाम-केयूरकंकणमणिद्युतिदीपितस्य ।
द्वारे निकुंजनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ 63 ॥

॥ गीतं 21 ॥

मंजुतरकुंजतलकेलिसदने ।
विलस रतिरभसहसितवदने ॥
प्रविश राधे माधवसमीपमिह ॥ 1 ॥

नवभवदशोकदलशयनसारे ।
विलस कुचकलशतरलहारे ॥ 2 ॥

कुसुमचयरचितशुचिवासगेहे ।
विलस कुसुमसुकुमारदेहे ॥ 3 ॥

चलमलयवनपवनसुरभिशीते ।
विलस रसवलितललितगीते ॥ 4 ॥

मधुमुदितमधुपकुलकलितरावे ।
विलस मदनरससरसभावे ॥ 5 ॥

मधुतरलपिकनिकरनिनदमुखरे ।
विलस दशनरुचिरुचिरशिखरे ॥ 6 ॥

वितत बहुवल्लिनवपल्लवघने ।
विलस चिरमलसपीनजघने ॥ 7 ॥

विहितपद्मावतीसुखसमाजे ।
भणति जयदेवकविराजे ॥ 8 ॥

त्वां चित्तेन चिरं वहन्नयमतिश्रांतो भृशं तापितः कंदर्पेण तु पातुमिच्छति सुधासंबाधबिंबाधरम् ।
अस्यांगं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदांभोजे कुतः संभ्रमः ॥ 64 ॥

सा ससाध्वससानंदं गोविंदे लोललोचना ।
सिंजानमंजुमंजीरं प्रविवेश निवेशनम् ॥ 65 ॥

॥ गीतं 22 ॥

राधावदनविलोकनविकसितविविधविकारविभंगम् ।
जलनिधिमिव विधुमंडलदर्शनतरलिततुंगतरंगम् ॥
हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनंगनिवासम् ॥ 1 ॥

हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदंबकरंबितमिव यमुनाजलपूरम् ॥ 2 ॥

श्यामलमृदुलकलेवरमंडलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ 3 ॥

तरलदृगंचलचलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखंजनयुगमिव शरदि तडागम् ॥ 4 ॥

वदनकमलपरिशीलनमिलितमिहिरसमकुंडलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ 5 ॥

शशिकिरणच्छुरितोदरजलधरसुंदरसकुसुमकेशम् ।
तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ 6 ॥

विपुलपुलकभरदंतुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ 7 ॥

श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ 8 ॥

अतिक्रम्यापांगं श्रवणपथपर्यंतगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदांबुप्रसर इव हर्षाश्रुनिकरः ॥ 66 ॥

भवंत्यास्तल्पांतं कृतकपटकंडूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यंत्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ 67 ॥

॥ इति श्रीगीतगोविंदे राधिकामिलने सानंददामोदरो नामैकादशः सर्गः ॥

Post a Comment

Support Us with a Small Donation