Vishnu Suktam | विष्णु सूक्तम्

Vishnu Suktam | विष्णु सूक्तम्

ॐ-विँष्णो॒र्नुकं॑-वीँ॒र्या॑णि॒ प्रवो॑चं॒ यः पार्थि॑वानि विम॒मे राजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑-विँचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ॥ 1 (तै. सं. 1.2.13.3)
विष्णो॑र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒ विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ 2 (तै. सं. 1.2.13.3)

तद॑स्य प्रि॒यम॒भिपाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मदं॑ति । उ॒रु॒क्र॒मस्य॒ स हि बंधु॑रि॒त्था । विष्णो᳚ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ ॥ 3 (तै. ब्रा. 2.4.6.2)
प्र तद्विष्णु॑-स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्ष॒यंति॒ भुव॑नानि॒ विश्वा᳚ ॥ 4 (तै. ब्रा. 2.4.3.4)

प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्वमन्व॑श्नुवंति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒त्वम् । प॒र॒मस्य॑ विथ्से ॥ 5 (तै. ब्रा. 2.8.3.2)

विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार ॥ 6 (तै. ब्रा. 2.4.3.5)

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वे॒षग्ग् ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ 7 (तै. ब्रा. 2.4.3.5)

अतो॑ दे॒वा अ॑वंतु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे । पृ॒थि॒व्या-स्स॒प्तधाम॑भिः । इ॒दं-विँष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ॥ त्रीणि॑ प॒दा विच॑क्रमे॒ विष्णु॑र्गो॒पा अदा᳚भ्यः । ततो॒ धर्मा॑णि धा॒रयन्॑ । विष्णोः॒ कर्मा॑णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे । इंद्र॑स्य॒ युज्य॒स्सखा᳚ ॥

तद्विष्णोः᳚ पर॒मं प॒दग्ं सदा॑ पश्यंति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सो विप॒न्यवो॑ जागृ॒वाग्ं स॒स्समिं॑धते । विष्णो॒र्यत्प॑र॒मं प॒दम् । पर्या᳚प्त्या॒ अनं॑तरायाय॒ सर्व॑स्तोमोऽति रा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्त्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

Post a Comment

और नया पुराने