श्री सूर्य नमस्कार मंत्रं | Shree Surya Namaskar Mantra

ॐ ध्यायेस्सदा सवितृमंडलमध्यवर्ती
नारायणस्सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुंडलवान् किरीटी
हारी हिरण्मयवपुः धृतशंखचक्रः ॥

ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरीचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ॥

आदित्यस्य नमस्कारान् ये कुर्वंति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥

Post a Comment

Support Us with a Small Donation