Shree Kalpriyesh Stotram | श्री कालप्रियेश स्तोत्रं 

विधीशमुखगीर्वाणयाचनाफलमद्भुतम् ।
दिव्यभासं भजे व्यासं शिशुं शशिमुखंसदा ।।१।।

दर्शनं केवलं यस्य सुखं दिव्य़ं प्रयच्छति ।
अर्वणनीयलावण्यं व्यासं वन्दे रविप्रभम् ।।२।।

तेजसा बालमार्ताणड: लावण्येनचमन्मथ: ।
निर्जितो येन तं वन्दे व्यासं सुस्मितसुन्दरम् ।।३।।

सृष्टिकर्ता विधातास्य पुत्रो पौत्रश्च शंकर: ।
अनादिनिधनंवन्दे तं बालं बालभास्करम् ।।४।।  ‌

जातमात्रोऽभिवृद्धश्चवटुदिव्योबभूवह ।
वामन: काश्यपो यव्दत् तपस्विकुलवर्धन: ।।५।।

भक्तानां हृदये स्थित्वा तमोऽज्ञानं विनाशयन्। 
बालतिग्नांशुसंकाशं व्यासं वन्देसतांपतिम् ।।६।।

वसिष्ठवंशमार्ताण्डं तपस्विकुलमण्डनम् ।
पराशरात्मजं वन्दे वासवीनन्दनं सदा ।।७।।

अध्ययेन विनैवायं सर्वज्ञो ज्ञानदायक: ।
केनापि नैव विज्ञेयस्तंवन्दे वासवीसुतम् ।।८।। 

यन्नाम कीर्तितं पापं हन्ति तूलमिवानिल: ।
तं वन्दे मोहनं व्यासं चिदानन्दप्रदायकम् ।।९।।

व्यासस्येयं स्तुतिर्नित्यं पठिता बालरूपिण: ।
विद्यां बुद्धिंददातीश: निर्मलं ज्ञानमेवच ।।१०।।

।।इति श्रीमद् सुधीन्द्रतीर्थकृतं श्री कालप्रियेश स्तोत्रं संपू्र्णम् ।।

Post a Comment

Support Us with a Small Donation