Shiv Sahastra Naam Stotram | शिव सहस्र नाम स्तोत्रम्


स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः ।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः ।
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः ॥ 2 ॥

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।
श्मशानचारी भगवानः खचरो गोचरोऽर्दनः ॥ 3 ॥

अभिवाद्यो महाकर्मा तपस्वी भूत भावनः ।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥

महारूपो महाकायो वृषरूपो महायशाः ।
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 5 ॥

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।
पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 6 ॥

सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः ।
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः ॥ 7 ॥

चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः ।
अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥

महातपा घोर तपाऽदीनो दीनसाधकः ।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥

योगी योज्यो महाबीजो महारेता महातपाः ।
सुवर्णरेताः सर्वघ्यः सुबीजो वृषवाहनः ॥ 10 ॥

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥ 11 ॥

गणकर्ता गणपतिर्दिग्वासाः काम एव च ।
पवित्रं परमं मन्त्रः सर्वभाव करो हरः ॥ 12 ॥

कमण्डलुधरो धन्वी बाणहस्तः कपालवानः ।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः ॥ 13 ॥

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा ॥ 14 ॥

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ 15 ॥

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि ।
उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः ॥ 16 ॥

त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः ।
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 17 ॥

गजहा दैत्यहा लोको लोकधाता गुणाकरः ।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥

कालयोगी महानादः सर्ववासश्चतुष्पथः ।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥

बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः ।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ 20 ॥

घोरो महातपाः पाशो नित्यो गिरि चरो नभः ।
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ 21 ॥

अमर्षणो मर्षणात्मा यघ्यहा कामनाशनः ।
दक्शयघ्यापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः ।
गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः ॥ 23 ॥

न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः ।
सुदीक्श्णदशनश्चैव महाकायो महाननः ॥ 24 ॥

विष्वक्सेनो हरिर्यघ्यः संयुगापीडवाहनः ।
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः ॥ 25 ॥

विष्णुप्रसादितो यघ्यः समुद्रो वडवामुखः ।
हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥

उग्रतेजा महातेजा जयो विजयकालवितः ।
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ॥ 27 ॥

शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।
वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 28 ॥

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः ।
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः ॥ 29 ॥

विमोचनः सुरगणो हिरण्यकवचोद्भवः ।
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ 30 ॥

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः ।
व्यालरूपो बिलावासी हेममाली तरङ्गवितः ॥ 31 ॥

त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः ।
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः ॥ 32 ॥

साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः ।
प्रस्कन्दनो विभागश्चातुल्यो यघ्यभागवितः ॥ 33 ॥

सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः ।
हेमो हेमकरो यघ्यः सर्वधारी धरोत्तमः ॥ 34 ॥

लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः ।
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥

मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः ।
सर्वकामप्रसादश्च सुबलो बलरूपधृकः ॥ 36 ॥

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।
आकाशनिधिरूपश्च निपाती उरगः खगः ॥ 37 ॥

रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी ।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥

सर्वावासी श्रियावासी उपदेशकरो हरः ।
मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः ॥ 39 ॥

पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः ।
उन्मादो मदनाकारो अर्थार्थकर रोमशः ॥ 40 ॥

वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः ।
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः ॥ 41 ॥

भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः ।
महासेनो विशाखश्च षष्टिभागो गवाम्पतिः ॥ 42 ॥

वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च ।
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः ॥ 43 ॥

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ।
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः ॥ 44 ॥

ईशान ईश्वरः कालो निशाचारी पिनाकधृकः ।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 45 ॥

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।
भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः ॥ 46 ॥

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।
लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः ॥ 47 ॥

बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः ।
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः ॥ 48 ॥

दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः ।
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः ॥ 49 ॥

अक्शरं परमं ब्रह्म बलवानः शक्र एव च ।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ 50 ॥

बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः ।
वेदकारः सूत्रकारो विद्वानः समरमर्दनः ॥ 51 ॥

महामेघनिवासी च महाघोरो वशीकरः ।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥

वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः ।
नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ 54 ॥

कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः ।
महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥

महामूर्धा महामात्रो महानेत्रो दिगालयः ।
महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥ 56 ॥

महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः ।
महावक्शा महोरस्को अन्तरात्मा मृगालयः ॥ 57 ॥

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥

महानखो महारोमा महाकेशो महाजटः ।
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः ॥ 59 ॥

स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः ।
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः ॥ 60 ॥

मण्डली मेरुधामा च देवदानवदर्पहा ।
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः ॥ 61 ॥

यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा ।
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः ॥ 62 ॥

उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः ।
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ 63 ॥

द्वादशस्त्रासनश्चाद्यो यघ्यो यघ्यसमाहितः ।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥

सगणो गण कारश्च भूत भावन सारथिः ।
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥

अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः ।
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥

आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः ।
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः ॥ 67 ॥

कपिलोऽकपिलः शूरायुश्चैव परोऽपरः ।
गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघ्येयः सुसारथिः ॥ 68 ॥

परश्वधायुधो देवार्थ कारी सुबान्धवः ।
तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः ॥ 69 ॥

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।
सयघ्यारिः सकामारिः महादंष्ट्रो महाऽऽयुधः ॥ 71 ॥

बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः ।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा ।
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥

प्रभावः सर्वगो वायुरर्यमा सविता रविः ।
उदग्रश्च विधाता च मान्धाता भूत भावनः ॥ 75 ॥

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः ।
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः ॥ 76 ॥

बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी ।
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 77 ॥

सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः ।
देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः ॥ 78 ॥

कैलास शिखरावासी हिमवदः गिरिसंश्रयः ।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥

वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः ।
सारग्रीवो महाजत्रु रलोलश्च महौषधः ॥ 80 ॥

सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः ।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 82 ॥

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 83 ॥

वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥

धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः ।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः ॥ 85 ॥

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः ।
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः ॥ 86 ॥

गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः ।
महागीतो महानृत्तोह्यप्सरोगणसेवितः ॥ 87 ॥

महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः ।
आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ 88 ॥

तोरणस्तारणो वायुः परिधावति चैकतः ।
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः ॥ 89 ॥

नित्यात्मसहायश्च देवासुरपतिः पतिः ।
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः ॥ 90 ॥

आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः ।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥

शिरोहारी विमर्शश्च सर्वलक्शण भूषितः ।
अक्शश्च रथ योगी च सर्वयोगी महाबलः ॥ 92 ॥

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।
निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः ॥ 93 ॥

रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः ।
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः ॥ 94 ॥

आरोहणो निरोहश्च शलहारी महातपाः ।
सेनाकल्पो महाकल्पो युगायुग करो हरिः ॥ 95 ॥

युगरूपो महारूपो पवनो गहनो नगः ।
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः ॥ 96 ॥

बहुमालो महामालः सुमालो बहुलोचनः ।
विस्तारो लवणः कूपः कुसुमः सफलोदयः ॥ 97 ॥

वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः ।
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः ॥ 98 ॥

निवेदनः सुधाजातः सुगन्धारो महाधनुः ।
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः ॥ 99 ॥

मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ।
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः ॥ 100 ॥

छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः ।
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः ॥ 101 ॥

हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः ।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 102 ॥

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः ।
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः ।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥

गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः ।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 105 ॥

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।
चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः ॥ 106 ॥

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः ।
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः ॥ 107 ॥

वरो वराहो वरदो वरेशः सुमहास्वनः ।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 108 ॥

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः ।
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः ॥ 109 ॥

चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः ।
साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः ॥ 110 ॥

व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः ।
ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः ॥ 111 ॥

कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः ।
विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः ॥ 112 ॥

सदसदः व्यक्तमव्यक्तं पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः ॥ 113 ॥

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः ।
देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥

देवासुरगुरुर्देवो देवासुरनमस्कृतः ।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥

देवासुरगणाध्यक्शो देवासुरगणाग्रणीः ।
देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥

देवासुरेश्वरोदेवो देवासुरमहेश्वरः ।
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः ॥ 117 ॥

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः ।
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ।
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः ॥ 119 ॥

गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥

अभिरामः सुरगणो विरामः सर्वसाधनः ।
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः ॥ 121 ॥

स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ।
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः ।
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः ॥ 123 ॥

श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ॥

इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

Post a Comment

Support Us with a Small Donation