Ardha Nareeswara Ashtakam | अर्ध नारीश्वर अष्टकम्

चांपेयगौरार्धशरीरकायै 
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय
नमः शिवायै च नमः शिवाय ॥ 1 ॥

कस्तूरिकाकुंकुमचर्चितायै 
चितारजःपुंज विचर्चिताय ।
कृतस्मरायै विकृतस्मराय 
नमः शिवायै च नमः शिवाय ॥ 2 ॥

झणत्क्वणत्कंकणनूपुरायै 
पादाब्जराजत्फणिनूपुराय ।
हेमांगदायै भुजगांगदाय 
नमः शिवायै च नमः शिवाय ॥ 3 ॥

विशालनीलोत्पललोचनायै 
विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय 
नमः शिवायै च नमः शिवाय ॥ 4 ॥

मंदारमालाकलितालकायै 
कपालमालांकितकंधराय ।
दिव्यांबरायै च दिगंबराय 
नमः शिवायै च नमः शिवाय ॥ 5 ॥

अंभोधरश्यामलकुंतलायै 
तटित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय 
नमः शिवायै च नमः शिवाय ॥ 6 ॥

प्रपंचसृष्ट्युन्मुखलास्यकायै 
समस्तसंहारकतांडवाय ।
जगज्जनन्यै जगदेकपित्रे 
नमः शिवायै च नमः शिवाय ॥ 7 ॥

प्रदीप्तरत्नोज्ज्वलकुंडलायै 
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय 
नमः शिवायै च नमः शिवाय ॥ 8 ॥

एतत्पठेदष्टकमिष्टदं यो 
भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनंतकालं 
भूयात्सदा तस्य समस्तसिद्धिः ॥

Post a Comment

Support Us with a Small Donation