भावना द्वात्रिशंतिका (उपजाति छन्द) | Bhavana Dwatrishantika (Upjati Chand)

उपजाति छन्द:
सत्त्वेषु मैत्रीं गुणिषु प्रमोदं,
क्लिष्टेषु जीवेषु कृपा-परत्वम्।
माध्यस्थभावं विपरीतवृत्तौ,
सदा ममात्मा विदधातु देव॥ १॥

शरीरत: कत्र्तुमनन्त-शक्तिं,
विभिन्नमात्मानमपास्त-दोषम्।
जिनेन्द्र! कोषादिव खड्ग-यष्टिं,
तव प्रसादेन ममाऽस्तु शक्ति:॥ २॥

दु:खे सुखे वैरिणि बन्धुवर्गे,
योगे वियोगे भवने वने वा।
निराकृताशेष-ममत्वबुद्धे:
समं मनो मेऽस्तु सदाऽपि नाथ!॥ ३॥

मुनीश! लीनाविव कीलिताविव,
स्थिरौ निखाताविव बिम्बिताविव।
पादौ त्वदीयौ मम तिष्ठतां सदा,
तमोधुनानौ हृदि दीपकाविव॥ ४॥

एकेन्द्रियाद्या यदि देव! देहिन:,
प्रमादत: सञ्चरता इतस्तत:।
क्षता विभिन्ना मिलिता निपीडितास्,
तदस्तु मिथ्या दुरनुष्ठितं तदा॥ ५॥

विमुक्तिमार्ग-प्रतिकूलवर्तिना,
मया कषायाक्षवशेन दुर्धिया।
चारित्रशुद्धेर्यदकारि लोपनं,
तदस्तु मिथ्या मम दुष्कृतं प्रभो!॥ ६॥

विनिन्दनाऽऽलोचन-गर्हणैरहं,
मनोवच:कायकषाय-निर्मितम्।
निहन्मि पापं भवदु:खकारणं,
भिषग्विषं मन्त्रगुणैरिवाखिलम्॥ ७॥

अतिक्रमं यद्विमतेव्र्यतिक्रमं,
जिनातिचारं सुचरित्रकर्मण:।
व्यधामनाचारमपि प्रमादत:,
प्रतिक्रमं तस्य करोमि शुद्धये॥८॥

क्षतिं मन: शुद्धि-विधेरतिक्रमं,
व्यतिक्रमं शील-व्रतेर्विलङ्घनम्।
प्रभोऽतिचारं विषयेषु वर्तनं
वदन्त्यनाचारमिहातिसक्तताम्॥ ९॥

यदर्थमात्रा-पदवाक्यहीनं,
मया प्रमादाद्यदि किञ्चनोक्तम्।
तन्मे क्षमित्वा विदधातु देवी,
सरस्वती केवलबोधलब्धिम्॥ १०॥

बोधि: समाधि: परिणामशुद्धि:,
स्वात्मोपलब्धि: शिवसौख्यसिद्धि:।
चिन्तामणिं चिन्तितवस्तुदाने,
त्वां वन्दमानस्य ममास्तु देवि!॥ ११॥

य: स्मर्यते सर्वमुनीन्द्रवृन्दै,
र्य: स्तूयते सर्वनराऽमरेन्द्रै:।
यो गीयते वेदपुराणशास्त्रै:,
स देवदेवो हृदये ममास्ताम्॥ १२॥

यो दर्शनज्ञानसुखस्वभाव:,
समस्त-संसार-विकारबाह्य:।
समाधिगम्य: परमात्मसञ्ज्ञ:,
स देवदेवो हृदये ममास्ताम्॥ १३॥

निषूदते यो भवदु:खजालं,
निरीक्षते यो जगदन्तरालम्।
योऽन्तर्गतो योगिनिरीक्षणीय:,
स देवदेवो हृदये ममास्ताम्॥ १४॥

विमुक्तिमार्गप्रतिपादको यो,
यो जन्ममृत्युव्यसनाद्यतीत:।
त्रिलोकलोकी विकलोऽकलङ्क:
स देवदेवो हृदये ममास्ताम्॥ १५॥

क्रोडीकृताऽशेष-शरीरिवर्गा,
रागादयो यस्य न सन्ति दोषा:।
निरिन्द्रियो ज्ञानमयोऽनपाय:,
स देवदेवो हृदये ममास्ताम्॥ १६॥

यो व्यापको विश्वजनीनवृत्ते:,
सिद्धो विबुद्धो धुतकर्मबन्ध:।
ध्यातो धुनीते सकलं विकारं,
स देवदेवो हृदये ममास्ताम्॥ १७॥

न स्पृश्यते कर्मकलङ्कदोषै:
यो ध्वान्तसङ्घैरिव तिग्मरश्मि:।
निरञ्जनं नित्यमनेकमेकं,
तं देवमाप्तं शरणं प्रपद्ये॥ १८॥

विभासते यत्र मरीचिमाली,
न विद्यमाने भुवनावभासी।
स्वात्मस्थितं बोधमयप्रकाशं,
तं देवमाप्तं शरणं प्रपद्ये॥ १९॥

विलोक्यमाने सति यत्र विश्वं,
विलोक्यते स्पष्टमिदं विविक्तम्।
शुद्धं शिवं शान्तमनाद्यनन्तं,
तं देवमाप्तं शरणं प्रपद्ये॥ 20॥

येन क्षता मन्मथमानमूच्र्छा,
विषादनिद्राभय-शोक-चिन्ता:।
क्षतोऽनलेनेव तरुप्रपञ्चस्,
तं देवमाप्तं शरणं प्रपद्ये॥ २१॥

न संस्तरोऽश्मा न तृणं न मेदिनी,
विधानतो नो फलको विनिर्मित:।
यतो निरस्ताक्षकषाय-विद्विष:,
सुधीभिरात्मैव सुनिर्मलो मत:॥ २२॥

न संस्तरो भद्र! समाधिसाधनं,
न लोकपूजा न च सङ्घमेलनम्।
यतस्ततोऽध्यात्मरतो भवानिशं,
विमुच्य सर्वामपि बाह्यवासनाम्॥ २३॥

न सन्ति बाह्या मम केचनार्था
भवामि तेषां न कदाचनाहम्।
इत्थं विनिश्चित्य विमुच्य बाह्यं,
स्वस्थ: सदा त्वं भव भद्र! मुक्त्यै॥ २४॥

आत्मानमात्मन्यवलोक्यमानस्
त्वं दर्शनज्ञानमयो विशुद्ध:।
एकाग्रचित्त: खलु यत्र तत्र,
स्थितोऽपि साधुर्लभते समाधिम्॥ २५॥

एक: सदा शाश्वतिको ममात्मा,
विनिर्मल: साधिगमस्वभाव:।
बहिर्भवा: सन्त्यपरे समस्ता,
न शाश्वता: कर्मभवा: स्वकीया:॥ २६॥

यस्यास्ति नैक्यं वपुषापि साद्र्धं,
तस्यास्ति किं पुत्र-कलत्र-मित्रै:।
पृथक्कृते चर्मणि रोमकूपा:,
कुतो हि तिष्ठन्ति शरीरमध्ये॥ २७॥

संयोगतो दु:खमनेकभेदं,
यतोऽश्नुते जन्मवने शरीरी।
ततस्त्रिधासौ परिवर्जनीयो,
यियासुना निर्वृतिमात्मनीनाम्॥ २८॥

सर्वं निराकृत्य विकल्प-जालं,
संसार-कान्तार- निपातहेतुम्।
विविक्तमात्मानमवेक्ष्य-माणो,
निलीयसे त्वं परमात्मतत्त्वे॥ २९॥

स्वयं कृतं कर्म यदात्मना पुरा,
फलं तदीयं लभते शुभाशुभम्।
परेण दत्तं यदि लभ्यते स्फुटं,
स्वयं कृतं कर्म निरर्थकं तदा॥ ३०॥

निजार्जितं कर्म विहाय देहिनो,
न कोऽपि कस्यापि ददाति किञ्चन।
विचारयन्नेव-मनन्यमानस:,
परो ददातीति विमुञ्च शेमुषीम्॥ ३१॥

यै: परमात्माऽमितगतिवन्द्य:,
सर्वविविक्तो भृशमनवद्य:।
शश्वदधीतो मनसि लभन्ते,
मुक्तिनिकेतं विभववरं ते॥ ३२॥

इति द्वात्रिंशतावृत्तै:, परमात्मानमीक्षते।
योऽनन्यगत-चेतस्को, यात्यसौ पदमव्ययम्॥

Post a Comment

Support Us with a Small Donation