वेंकटेश्वरा सुप्रभातम स्तोत्र | Shree Venkateshwara suprabhatham stotra

कौसल्यासुप्रजा राम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्त्तव्यं दैवमाह्निकम् ॥१॥

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥२॥

मातस्समस्तजगतां मधुकैटभारेः वक्षोविहारिणि मनोहरदिव्यमूर्ते ।
श्रीस्वामिनि श्रितजनप्रियदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥३॥

तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले ।
विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥४॥

अत्र्यादिसप्तऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि ।
आदाय पादयुगमर्चयितुं प्रपन्नाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥५॥

पञ्चाननाब्जभवषण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधाः स्तुवन्ति ।
भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥६॥

ईषत्प्रफुल्लसरसीरुहनारिकेल पूगद्रुमादिसुमनोहरपालिकानाम् ।
आवाति मन्दमनिलः सह दिव्यगन्धैः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥७॥

उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि ।
भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखरविभो तव सुप्रभातम् ॥८॥

तन्त्रीप्रकर्षमधुरस्वनया विपञ्च्या गायत्यनन्तचरितं तव नारदोऽपि ।
भाषासमग्रमसकृत्करचारुरम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥९॥

भृङ्गावली च मकरन्दरसानुविद्धा झङ्कारगीतनिनदैः सह सेवनाय ।
निर्यात्युपान्तसरसीकमलोदरेभ्यः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१०॥

योषागणेन वरदध्निविमथ्यमाने घोशालयेषु दधिमन्थनतीव्रघोषाः ।
रोषात्कलिं विदधते ककुभाश्च कुम्भाः शेषाद्रिशेखरविभो तव सुप्रभातम् ॥११॥

पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या ।
भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥१२॥

श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीश्रीनिवासजगदेकदयैकसिन्धो ।
श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१३॥

श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गाः श्रेयोऽर्थिनो हरविरञ्चिसनन्दनाद्याः ।
द्वारे वसन्ति वरवेत्रहतोत्तमाङ्गाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१४॥

श्रीशेषशैलगरुडाचलवेङ्कटाद्रि नारायणाद्रिवृषभाद्रिवृषाद्रिमुख्याम् ।
आख्यां त्वदीयवसतेरनिशं वदन्ति श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१५॥

सेवापराः शिवसुरेशकृशानुधर्म रक्षोम्बुनाथपवमानधनादिनाथाः ।
बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१६॥

धाटीषु ते विहगराजमृगाधिराज नागाधिराजगजराजहयाधिराजाः ।
स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१७॥

सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः ।
तवद्दासदासचरमावधिदासदासाः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१८॥

त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः ।
कल्पागमाकलनयाकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥१९॥

त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः ।
मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२०॥

श्रीभूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते ।
श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२१॥

श्रीपद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठमाधव जनार्दन चक्रपाणे ।
श्रीवत्सचिह्न शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२२॥

कन्दर्पदर्पहर सुन्दर दिव्यमूर्ते कान्ताकुचाम्बुरुहकुड्मललोलदृष्टे ।
कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२३॥

मीनाकृते कमठकोलनृसिंहवर्णिन् स्वामिन् परश्वधतपोधन रामचन्द्र।
शेषांशराम यदुनन्दन कल्किरूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२४॥

एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं विहत्सरिति हेमघटेषु पूर्णम् ।
धृतवाद्यवैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ॥२५॥

भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः ।
श्रीवैष्णवाः सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ॥२६॥

ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दन्मुखास्तव योगिवर्याः ।
धामान्तिके तव हि मङ्गलवस्तुहस्ताः श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२७॥

लक्ष्मीनिवास निरवद्य गुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो ।
वेदान्तवेद्य निजवैभवभक्तभोग्य श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥२८॥

इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः ।
तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥२९॥

Image source:
'Malekallu Tirupathi-balaji, Arsikere' by Karsolene, image compressed, is licensed under CC BY-SA 3.0

Post a Comment

Support Us with a Small Donation