श्री संकटनाशन गणेश स्तोत्र | Shree Sankat Nashan Ganesh stotra

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम्
भक्तावासं स्मरेन्नित्यायुष्कामार्थ सिद्धये (1)

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्ण पिङ्गाक्षं गजवक्त्रं चतुर्थकम् (2)

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् (3)

नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम् (4)

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः
न च विघ्नभयं तस्य सर्व सिद्धिश्च जायते (5)

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् (6)

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः (7)

अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः (8)

Post a Comment

Support Us with a Small Donation