शरणागति गद्यम् | Saranagati gadyam

॥ श्रीमते रामानुजाय नमः ॥


यो नित्यमच्युतपदाम्बुजयुग्मरुक्म -

व्यामोहतस्तदितराणि तृणाय मेने ।

अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः

रामानुजस्य चरणौ शरणं प्रपद्ये ॥


वन्दे वेदान्त कर्पूर चामीकरकरण्डकम्

रामानुजार्यमार्याणां चूडामणि महर्निशम् ॥


श्री रङ्गनायिका रामानुज संवादः ॥


श्री रामानुजः ---


भगवन्नारायणाभिमतानुरूप स्वरूपरूप गुणविभव ऐश्वर्य

शीलाद्यनवधिकातिशय असङ्ख्येय

कल्याणगुणगणां पद्मवनालयां भगवतीं

श्रियं देवीं नित्यानपायिनीं निरवद्यां देवदेवदिव्यमहिषीम्

अखिलजगन्मातरम् अस्मन्मातरम् अशरण्यशरण्याम् अनन्यशरणः

शरणमहं प्रपद्ये ॥


पारमार्थिक भगवच्चरणारविन्दयुगळ

ऐकान्तिकात्यन्तिक परभक्ति परज्ञान

परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन

अनवधिकातिशयप्रिय भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित

अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया

पारमार्थिकी भगवच्चरणारविन्द शरणागतिः

यथावस्थिता अविरताऽस्तु मे ॥


श्री रङ्गनायिका ---


अस्तु ते । तयैव सर्वं सम्पत्स्यते ॥


॥ श्री रङ्गनाथ रामानुज संवादः ॥


श्री रामानुजः ---


अखिलहेयप्रत्यनीक कल्याणैकतान ! स्वेतर समस्तवस्तुविलक्षण

अनन्तज्ञानानन्दैकस्वरूप ! स्वाभिमतानुरूप एकरूप अचिन्त्य दिव्याद्भुत

नित्यनिरवद्य निरतिशय औज्ज्वल्य सौन्दर्य सौगन्ध्य सौकुमार्य लावण्य

यौवनाद्यनन्तगुणनिधिदिव्यरूप !


स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्यशक्ति तेजस्सौशील्य

वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य

चातुर्य स्थैर्य धैर्य शौर्य पराक्रम सत्यकाम सत्यसङ्कल्प कृतित्व

कृतज्ञताद्यसङ्ख्येय कल्याणगुणगणौघमहार्णव !


स्वोचितविविधविचित्र अनन्ताश्चर्य नित्य निरवद्य निरतिशयसुगन्ध

निरतिशयसुखस्पर्श निरतिशयौज्ज्वल्य किरीट मकुट चूडावतंस

मकरमुण्डल ग्रैवेयक हार केयूर कटक श्रीवत्स कौस्तुभ मुक्तादाम

उदरबन्धन पीताम्बर काञ्चीगुण नूपुराद्यपरिमित दिव्यभूषण ! स्वानुरूप

अचिन्त्यशक्ति शङ्खचक्र गदासि शार्ङ्गद्यसङ्ख्येय

नित्यनिरवद्य निरतिशय कल्याणदिव्यायुध !


स्वाभिमत नित्यनिरवद्यानुरूप स्वरूप रूप गुण विभव ऐश्वर्य

शीलाद्यनवधिकातिशय असङ्ख्येय कल्याणगुणगणश्रीवल्लभ !

एवम्भूतभूमिनीळानायक !


स्वच्छन्दानुवर्ति स्वरूपस्थितिप्रवृत्तिभेद अशेषशेषतैकरतिरूप

नित्यनिरवद्यनिरतिशय ज्ञानक्रियैश्चर्याद्यनन्त

कल्याणगुणगण शेष शेषाशन

गरुडप्रमुख नानाविध अनन्तपरिजन परिचारिका परिचरित चरणयुगळ !


परमयोगिवाङ्मनसाऽपरिच्छेद्य स्वरूपस्वभाव स्वाभिमत

विविधविचित्रानन्त भोग्य भोगोपकरण भोगस्थानसमृद्ध अनन्ताश्चर्य

अनन्तमहाविभव अनन्तपरिमाण नित्य निरवद्य निरतिशय श्रीवैकुण्ठनाथ !


स्वसङ्कल्पानुविधायि स्वरूपस्थितिप्रवृत्ति

स्वशेषतैकस्वभाव प्रकृति पुरुष

कालात्मक विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप

निखिलजगदुदय विभव लयलील !


सत्यकाम! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम महाविबूते ! श्रीमन्!

नारायण! वैकुण्ठनाथ !


अपार कारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे !

अनालोचितविशेष अशेषलोकशरण्य ! प्रणतार्तिहर !

आश्रितवात्सल्यैकजलधे! अनवरतविदित निखिलभूतजातयाथात्म्य!

अशेषचराचरभूत निखिलनियमननिरत! अशेषचिदचिद्वस्तु शेषिभूत!

निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम!

सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्!

नारायण! अशरण्यशरण्य! अनन्यशरणः

त्वत्पादारविन्दयुगळं  शरणमहं प्रपद्ये ॥


अत्र द्वय(मनुसन्देय)म् ।


 <फ़ोन्त् चोलोर्=रेद्>


᳚पितरं मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।

रत्नानि धनधान्यानि क्षेत्राणि च गृहाणि च ॥


सर्वधर्माश्च सन्त्यज्य सर्वकामांश्च साक्षरान् ।

लोकविक्रान्तचरणौ शरणं तेऽव्रजं विभो! ॥ ᳚


᳚त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥


पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्र येऽप्यप्रतिमप्रभाव ! ॥ ᳚


᳚तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ᳚




मनोवाक्कायैरनादिकालप्रवृत्त अनन्त अकृत्यकरण

कृत्याकरण भगवदपचार

भागवतापचार असह्यापचाररूप नानाविध अनन्तापचारान्

आरब्धकार्यान् , अनारब्धकार्यान् , कृतान् , क्रियमाणान् , करिष्यमाणांश्च

सर्वान् अशेषतः क्षमस्व ।


अनादिकालप्रवृत्तविपरीतज्ञानं ,  आत्मविषयं   कृत्स्नजगद्विषयं च ,

विपरीतवृत्तं च अशेषविषयं ,

अद्यापि वर्तमानं वर्तिष्यमाणं च सर्वं क्षमस्व ॥


मदीयानादिकर्मप्रवाहप्रवृत्तां , भगवत्स्वरूपतिरोधानकरीं ,

विपरीतज्ञानजननीं , स्वविषयायाश्च भोग्यबुद्धेर्जननीं , देहेन्द्रियत्वेन

भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां , दैवीं गुणमयीं मायाम् ,

 <फ़ोन्त् चोलोर्=रेद्>

 ᳚ दासभूतः शरणागतोऽस्मि तवास्मि दासः, ᳚


 इति वक्तारं मां तारय ।


<फ़ोन्त् चोलोर्=रेद्>


᳚तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥


उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥


बहूनां जन्मनामस्ते ज्ञानवान् मां प्रपद्यते ।

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ᳚ ॥




इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ।


<फ़ोन्त् चोलोर्=रेद्>


᳚ पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया ᳚ , ᳚भक्त्या

त्वनन्यया शक्यः᳚, ᳚मद्भक्तिं लभते पराम्᳚




इति स्थानत्रयोदितपरभक्तियुक्तं मां कुरुष्व ।


परभक्तिपरज्ञानपरमभक्त्येकस्वभावं मां कुरुष्व ।


परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्यविशदतम

अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं , तथाविध

भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित

अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ।


श्री रङ्गनाथः ----

एवम्भूत मत्कैङ्कर्यप्राप्त्युपायतया अवकॢप्तसमस्तवस्तुविहीनोऽपि , अनन्त

तद्विरोधिपापाक्रान्तोऽपि , अनन्त मदपचारयुक्तोऽपि , अनन्त

मदीयापचारयुक्तोऽपि , अनन्त असह्यापचारयुक्तोऽपि , एतत्कर्यकारणभूत

अनादि विपरीताहङ्कार विमूढात्मस्वभावोऽपि , एतदुभयकार्यकारणभूत

अनादि विपरीतवासनासम्बद्धोऽपि , एतदनुगुण प्रकृतिविशेषसम्बद्धोऽपि ,

एतन्मूल आध्यात्मिक आधिभौतिक आधिदैविक सुखदुःख तद्धेतु

तदितरोपेक्षणीय विषयानुभव ज्ञानसङ्कोचरूप मच्चरणारविन्दयुगळ

एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नप्रतिहतोऽपि ,

येनकेनापि प्रकारेण द्वयवक्ता त्वम् ,

केवलं मदीययैव दयया , निश्शेषविनष्ट

सहेतुक मच्चरणारविन्दयुगळ एकान्तिकत्यन्तिक परभक्ति परज्ञान

परमभक्तिविघ्नः , मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक

परभक्ति परज्ञान परमभक्तिः , मत्प्रसादादेव साक्षात्कृत यथावस्थित

मत्स्वरूपरूपगुणविभूति लीलोपकरणविस्तारः , अपरोक्षसिद्ध मन्नियाम्यता

मद्दास्यैकरसात्मस्वभावात्मस्वरूपः , मदेकानुभवः , मद्दास्यैकप्रियः ,

परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय

मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित

अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भव ।


एवम्भूतोऽसि ।


आध्यात्मिक आधिभौतिक आधिदैविक दुःखविघ्नगन्धरहितस्त्वं

द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छ रीरपातं अत्रैव श्रीरङ्गे

सुखमास्व ॥


शरीरपातसमये तु केवलं मदीययैव दयया अतिप्रबुद्धः , मामेवावलोकयन् ,

अप्रच्युत पूर्वसंस्कारमनोरथः , जीर्णमिव वस्त्रं सुखेन इमां प्रकृतिं


स्थूलसूक्ष्मरूपां विसृज्य , तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगळ

एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्य

विशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध

मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित

अशेषशेषतैकरतिरूप नित्यकिङ्करो भविष्यसि ॥


मातेऽभूदत्र संशयः ।

᳚अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।᳚

᳚ रामो द्विर्नाभिभाषते ।᳚

᳚ सकृदेव प्रपन्नाय तवास्मीति च याचते ।

अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥᳚

᳚ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥᳚

इति मयैव ह्युक्तम् ।


अतस्त्वं तव तत्त्वतो मद्ज्ञानदर्शन प्राप्तिषु निस्संशयः सुखमास्व ॥


अन्त्यकाले स्मृतिर्यातु तव कैङ्कर्यकारिता ।

तामेनां भगवन्नद्य क्रियामाणां कुरुष्व मे ॥


इति श्री भगवद्रामानुज विरचिते गद्यत्रय प्रबन्धे शरणागति गद्यम्


सर्वं श्री कृष्णार्पणमस्तु


Post a Comment

Support Us with a Small Donation