श्री मंगलाष्टकम | Shree Mangala Ashtakam

गजाननाय गाङ्गेयसहजाय सदात्मने
गौरीप्रिय तनूजाय गणेशायास्तु मङ्गलम् ( 1 )

नाग यज्ञोपवीदाय नतविघ्नविनाशिने
नन्द्यादि गणनाथाय नायकायास्तु मङ्गलम् (2)

इभ वक्त्राय चेन्द्रादि वन्दिताय चिदात्मने
ईशानप्रेमपात्राय नायकायास्तु मङ्गलम् (3)

सुमुखाय सुशुण्डाग्रात्-क्षिप्तामृतघटाय च
सुरबृन्द निषेव्याय चेष्टदायास्तु मङ्गलम् (4)

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च
चरणावनतानन्ततारणायास्तु मङ्गलम् (5)

वक्रतुण्डाय वटवे वन्याय वरदाय च
विरूपाक्ष सुतायास्तु मङ्गलम् (6)

प्रमोदमोदरूपाय सिद्धिविज्ञानरूपिणे
प्रकृष्टा पापनाशाय फलदायास्तु मङ्गलम् (7)

मङ्गलं गणनाथाय मङ्गलं हरसूनने
मङ्गलं विघ्नराजाय विघहर्त्रेस्तु मङ्गलम् (8)

श्लोकाष्टकमिदं पुण्यं मङ्गलप्रद मादरात्
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये (9)

Post a Comment

Support Us with a Small Donation