श्री विष्णु अष्टकम | Shree Vishnu Ashtakam

विष्णुं विशालारुण पद्म नेत्रं
विभान्त मीशाम्बुजयोनि पूजितं
सनातनं शन्मति शोधितं परं
पुमांसमाद्यं सततं प्रपद्ये  (1)

कल्याणदं कामफलप्रदायकं
कारुण्य रूपं कलिकल्मषघ्नम्
कलानिधिं कामतनूज माद्यं
नमामि लक्षिमिशमहं महान्तम्  (2)

पीताम्बरं भ्रुङ्गनिभं पितामह्
प्रमुख्य वन्द्यं जगदादि देवम्
किरीट केयूर मुखैः प्रशोभितं
श्री केशवं सन्तत मानतोऽस्मि (3)

भुजङ्ग तल्पं भुवनैक नाथं
पुनः पुनः स्वीक्रुत काय माद्यम्
पुरन्दराद्यैरपि वन्दितं सदा
मुकुन्त मद्यन्त मनोहरं भजे  (4)

क्षीराम्बुराशेरभिथः स्फुरन्तं
शयान माद्यन्त विहीनमव्ययं
सत्सेवितं सारसनाभ मुच्चैः
विघोषितं केषि निषूदनं भजे  (5)

भक्तार्ति हन्तार महर्निशं तं
मुनिद्र पुष्पाञ्चलि पाद पङ्कजम्
भवघ्न माधा रमहाश्रयं परं
परापरं पङ्कज लोचनं भजे  (6)

नारायणं दानव कान नानलं
नताप्रियं नामविहिन मव्ययं
हर्तुं भुवो भारमनन्त विग्रहं
स्वस्वीक्रुतक्ष्मावरमीडितोऽस्मि  (7)

नमोऽस्तु ते नाथ वरप्रदायिन्
नमोऽस्तु ते केशव किङ्करोऽस्मि
नमोऽस्तु ते नारद पूजिताङ्घ्रे
नमो नमस्त्वच्चरणं प्रपद्ये  (8)

विष्ण्वष्टकमिदं पुण्यं यः पठेद्भक्तितो नरः
सर्व पापवि निर्मुक्तो विष्णुलोकं स गच्छति

Post a Comment

Support Us with a Small Donation