श्री पाण्डुरङ्गाष्टकम | Shree Pandurangashtakam (Shree Vitobha ashtakam, Shree Vitthal Ashtakam)

महा योग पीठे तटे भीमरथ्यां
वरं पुण्डरीकाय दातुं मुनीन्द्रैः
समागत्य तिष्ठन्तमानन्द कन्दं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (1)

तडिद्वाससं नीलमेघाव भासं
रमा मन्दिरं सुन्दरं चित्प्रकाशम्
वरं त्विष्टि कायां समन्यस्त पादं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (2)

प्रमाणं भवाब्धेरिदं माम कानां
नितम्बः कराभ्यां धृतो येन तस्मात्
विधातुर्वसत्यै धृतो नाभि कोशः
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (3)

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे
श्रिया जुष्ट केयूरकं श्रीनिवासम्
शिवं शान्तमीड्यं वरं लोकपालं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (4)

शरच्चन्द्र बिम्बाननं चारुहासं
लसत्कुण्डलाक्रान्त गण्डस्थलाङ्गम्
जपा रागबिम्बाधरं कञ्जनेत्रं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (5)

किरीटोज्ज्वलत्सर्व दिक्प्रान्त भागं
सुरैरर्चितं दिव्यरत्नैरनर्घैः
त्रिभङ्गाकृतिं बर्ह माल्यावतंसं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (6)

विभुं वेणु नादं चरन्तं दुरन्तं
स्वयं लीलया गोपवेषं दधानम्
गवां वृन्दकानन्ददं चारुहासं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (7)

अजं रुक्मिणी प्राणसञ्जीवनं तं
परं धाम कैवल्यमेकं तुरीयम्
प्रसन्नं प्रपन्नार्तिहं देव देवं
परब्रह्म लिङ्गं भजे पाण्डु रङ्गम् (8)

स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये
पठन्त्येकचित्तेन भक्त्या च नित्यम्
भवाम्भोनिधिं तेऽपि तीर्त्वान्त काले
हरेरालयं शाश्वतं प्राप्नुवन्ति (9)

Post a Comment

Support Us with a Small Donation