शांति भक्ति (संस्कृत) | Shanti Bhakti (Sanskrit)

न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा,
हेतुस्तत्र विचित्र-दु:ख-निचय:, संसार घोरार्णव:।
अत्यन्त-स्फुरदुग्र - रश्मि -निकर,-व्याकीर्ण-भूमण्डलो,
ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रवि:॥ १॥

क्रुद्धाशीर्विष-दष्ट-दुर्जय-विष,-ज्वालावली विक्रमो,
विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा।
तद्वत्ते चरणारुणाम्बुज-युगस्, - तोत्रोन्मुखानां नॄणां,
विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मय:॥ २॥

सन्तप्तोत्तम - काञ्चन - क्षितिधर, श्रीस्पद्र्धि-गौरद्युते,
पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्।
उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता,
नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥

त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्,
नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसारिण:।
को वा प्रस्खलतीह केन विधिना, कालोग्र-दावानलान्,
न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥ ४॥

लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्र्ते विभो!
नाना - रत्न - पिनद्ध - दण्ड-रुचिर-श्वेतात-पत्रत्रय।
त्वत्पाद-द्वय-पूत-गीत-रवत:, शीघ्रं द्रवन्त्यामया,
दर्पाध्मात्-मृगेन्द्रभीम निनदाद्, वन्या यथा कुञ्जरा:॥ ५॥

दिव्य-स्त्री नयनाभिराम-विपुल, श्रीमेरु-चूडामणे,
भास्वद् बाल दिवाकर-द्युति-हर-, प्राणीष्ट-भाण्डल।
अव्याबाध-मचिन्त्य-सार-मतुलं, त्यक्तोपमं शाश्वतं।
सौख्यं त्वच्चरणारविन्द-युगल-, स्तुत्यैव सम्प्राप्यते॥ ६॥

यावन्नोदयते प्रभा परिकर: श्रीभास्करो भासयंस्,
तावद् धारयतीह पङ्कज-वनं, निद्रातिभार-श्रमम्।
यावत्त्वच्चरणद्वयस्य भगवन्!, न स्यात् प्रसादोदयस् -
तावज्जीव-निकाय एष वहति प्रायेण पापं महत्॥ ७॥

शान्तिं शान्तिजिनेन्द्र-शान्तमनसस् त्वत्पाद-पद्माश्रयात्,
संप्राप्ता: पृथिवी-तलेषु बहव: शान्त्यर्थिन: प्राणिन:।
कारुण्यान् मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु ,
त्वत्पादद्वय-दैवतस्य गदत: शान्त्यष्टकं भक्तित:॥ ८॥

शान्तिजिनं शशि-निर्मल-वक्त्रं,शीलगुण-व्रतसंयमपात्रम्।
अष्टशतार्चित लक्षणगात्रं, नौमि जिनोत्तममम्बुज नेत्रम्॥ ९॥

पञ्चममीप्सित-चक्रधराणां, पूजितमिन्द्र-नरेन्द्रगणैश्च।
शान्तिकरं गणशान्तिमभीप्सु: षोडशतीर्थकरं प्रणमामि॥ १०॥

दिव्यतरु : सुर-पुष्प-सुवृष्टि, - र्दुन्दुभिरासन-योजन-घोषौ।
आतपवारणचामरयुग्मे,यस्य विभाति च मण्डलतेज:॥ ११॥

तं जगदर्चित-शान्ति-जिनेन्द्रं, शान्तिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शान्तिं, मह्यमरं पठते परमां च॥ १२॥

येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नै:,
शक्रादिभि: सुरगणै: स्तुत-पादपद्मा:।
ते मे जिना: प्रवर-वंश-जगत्प्रदीपास्,
तीर्थङ्करा: सतत शान्तिकरा भवन्तु॥१३॥

सम्पूजकानां प्रतिपालकानां यतीन्द्र-सामान्य-तपोधनानाम्।
देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतु शान्तिं भगवान् जिनेन्द्र:॥१४॥

क्षेमं सर्वप्रजानां, प्रभवतु बलवान्, धार्मिको भूमिपाल:,
काले काले च सम्यग्, वितरतु मघवा, व्याध्यो यान्तु नाशम्।
दुर्भिक्षं चोरिमारि:, क्षणमपि जगतां, मास्मभूज्जीव-लोके,
जैनेन्दंर धर्मचक्रं, प्रभवतु सततं, सर्व-सौख्य-प्रदायि॥ १५॥

तद् द्रव्य मव्ययमुदेतु शुभ:स देश:,
संतन्यतां प्रतपतां सततं सकाल:।
भाव: स नन्दतु सदा यद्नुग्रहेण,
रत्नत्रयं प्रतपतीह मुमुक्षुवर्गे॥ १६॥

प्रध्वस्त घाति कर्माण:, केवल-ज्ञानभास्करा: ।
कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वरा:॥ १७॥

अंचलिका
इच्छामि भंते! संतिभत्ति-काउस्सग्गो कओ, तस्सालोचेउं, पञ्च-महा-कल्लाण-संपण्णाणं अट्ठ-महापाडिहेर-सहियाणंचउतीसातिसय-विसेस-संजुत्ताणं, बत्तीस-देवेंद-मणिमय-मउड-मत्थय-महियाणं बलदेव-वासुदेव चक्कहर-रिसि-मुणि-जदि-अणगारोवगूढाणं, थुइ-सय-सहस्स-णिलयाणं,उसहाइ-वीर-पच्छिम-मंगल-महापुरिसाणं णिच्चकालं,अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

Post a Comment

Support Us with a Small Donation