समाधी तंत्र | Samadhi Tantra

येनात्माऽबुध्यतात्मैव परत्वेनैव चापरम्।
अक्षयानन्तबोधाय तस्मै सिद्धात्मने नम:॥ १॥

जयन्ति यस्यावदतोऽपि भारती
विभूतयस्तीर्थकृतोप्यनीहितु:।
शिवाय धात्रे सुगताय विष्णवे
जिनाय तस्मै सकलात्मने नम:॥ २॥

श्रुतेन लिङ्गेन यथात्मशक्ति समाहितान्त:करणेन सम्यक् ।
समीक्ष्य कैवल्यसुखस्पृहाणां विविक्तमात्मानमथाभिधास्ये॥ ३॥

बहिरन्त: परश्चेति त्रिधात्मा सर्वदेहिषु।
उपेयात्तत्र परमं मध्योपायाद् बहिस्त्यजेत्॥ ४॥

बहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तर:।
चित्तदोषात्मविभ्रान्ति:, परमात्माऽतिनिर्मल:॥ ५॥

निर्मल: केवल: शुद्धो विविक्त: प्रभुरव्यय:।
परमेष्ठी परात्मेति परमात्मेश्वरो जिन:॥ ६॥

बहिरात्मेन्द्रियद्वारै - रात्मज्ञानपराङ्मुख:।
स्फुरित: स्वात्मनो देहमात्मत्वेनाध्यवस्यति॥ ७॥

नरदेहस्थमात्मान - मविद्वान् मन्यते नरम्।
तिर्यञ्चं तिर्यगङ्गस्थं सुराङ्गस्थं सुरं तथा॥ ८॥

नारकं नारकाङ्गस्थं न स्वयं तत्त्वतस्तथा।
अनन्तानन्तधीशक्ति: स्वसंवद्योऽचलस्थिति:॥ ९॥

स्वदेहसदृशं दृष्ट्वा परदेहमचेतनम्।
परात्माधिष्ठितं मूढ: परत्वेनाध्यवस्यति॥ १०॥

स्वपराध्यवसायेन देहेष्वविदितात्मनाम्।
वर्तते विभ्रम: पुंसां पुत्रभार्यादिगोचर:॥११॥

अविद्यासंज्ञितस्तस्मात् संस्कारो जायते दृढ:।
येन लोकोऽङ्गमेव स्वं पुनरप्यभिमन्यते॥ १२॥

देहे स्वबुद्धिरात्मानं युनक्त्येतेन निश्चयात्।
स्वात्मन्येवात्मधीस्तस्माद्वियोजयति देहिनम्॥ १३॥

देहेष्वात्मधिया जाता: पुत्रभार्यादिकल्पना:।
सम्पत्तिमात्मनस्ताभि र्मन्यते हा हतं जगत्॥ १४॥

मूलं संसारदु:खस्य देह एवात्मधीस्तत:।
त्यक्त्त्वैनां प्रविशेदन्त - र्बहिरव्यापृतेन्द्रिय:॥ १५॥

मत्तश्च्युत्वेन्द्रियद्वारै: पतितो विषयेष्वहम् ।
तान् प्रपद्याऽहमिति मां पुरा वेद न तत्त्वत:॥ १६॥

एवं त्यक्त्वा बहिर्वाचं त्यजेदन्तरशेषत:।
एष योग: समासेन प्रदीप: परमात्मन:॥ १७॥

यन्मया दृश्यते रूपं तन्न जानाति सर्वथा।
जानन्न दृश्यते रूपं तत: केन ब्रवीम्यहम्॥ १८॥

यत्परै: प्रतिपाद्योऽहं यत्परान् प्रतिपादये।
उन्मत्तचेष्टितं तन्मे यदहं निर्विकल्पक:॥ १९॥

यदग्राह्यं न गृह्णाति गृहीतं नैव मुञ्चति।
जानाति सर्वथा सर्वं तत्स्वसंवेद्यमस्म्यहम्॥ २०॥

उत्पन्नपुरुषभ्रान्ते: स्थाणौ यद्वद्विचेष्टितम्।
तद्वन्मे चेष्टितं पूर्वं देहादिष्वात्मविभ्रमात्॥ २१॥

यथासौ चेष्टते स्थाणौ निवृत्ते पुरुषाग्रहे।
तथा चेष्टोऽस्मि देहादौ विनिवृत्तात्मविभ्रम:॥ २२॥

येनात्मनाऽनुभूयेऽह - मात्मनैवात्मनाऽऽत्मनि।
सोऽहं न तन्न सा नासौ नैको न द्वौ न वा बहु:॥२३॥

यदभावे सुषुप्तोऽहं यद्भावे व्युत्थित: पुन:।
अतीन्द्रियमनिर्देश्यं तत्स्वसंवेद्यमस्म्यहम् ॥ २४॥

क्षीयन्तेऽत्रैव रागाद्यास्तत्त्वतो मां प्रपश्यत:।
बोधात्मानं तत: कश्चिन्न मे शत्रुर्न च प्रिय:॥२५॥

मामपश्यन्नयं लोको न मे शत्रुर्न च प्रिय:।
मां प्रपश्यन्नयं लोको न मे शत्रुर्न च प्रिय:॥ २६॥

त्यक्त्वैवं बहिरात्मान - मन्तरात्मव्यवस्थित:।
भावयेत् परमात्मानं सर्वसङ्कल्पवर्जितम्॥ २७॥

सोऽहमित्यात्तसंस्कारस्तस्मिन् भावनया पुन:।
तत्रैव दृढसंस्काराल्लभते ह्यात्मनि स्थितिम्॥ २८॥

मूढात्मा यत्र विश्वस्तस्ततो नान्यद्भयास्पदम्।
यतो भीतस्ततो नान्यदभयस्थानमात्मन:॥ २९॥

सर्वेन्द्रियाणि संयम्य स्तिमितेनान्तरात्मना।
यत्क्षणं पश्यतो भाति तत्तत्त्वं परमात्मन:॥ ३०॥

य: परात्मा स एवाऽहं योऽहं स परमस्तत:।
अहमेव मयोपास्यो नान्य:कश्चिदिति स्थिति:॥ ३१॥

प्रच्याव्य विषयेभ्योऽहं मां मयैव मयि स्थितम्।
बोधात्मानं प्रपन्नोऽस्मि परमानन्दनिर्वृतम्॥ ३२॥

यो न वेत्ति परं देहादेवमात्मानमव्ययम्।
लभते स न निर्वाणं तप्त्वाऽपि परमं तप:॥ ३३॥

आत्मदेहान्तरज्ञान - जनिताह्लादनिर्वृत:।
तपसा दुष्कृतं घोरं भुञ्जानोऽपि न खिद्यते॥ ३४॥

रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम्।
स पश्यत्यात्मनस्तत्त्वं तत् तत्त्वं नेतरो जन:॥ ३५॥

अविक्षिप्तं मनस्तत्त्वं विक्षिप्तं भ्रान्तिरात्मन:।
धारयेत्तदविक्षिप्तं विक्षिप्तं नाश्रयेत्तत:॥ ३६॥

अविद्याभ्याससंस्कारै - रवशं क्षिप्यते मन:।
तदेवज्ञानसंस्कारै: स्वतस्तत्त्वेऽवतिष्ठते॥ ३७॥

अपमानादयस्तस्य विक्षेपो यस्य चेतस:।
नापमानादयस्तस्य न क्षेपो यस्य चेतस:॥ ३८॥

यदा मोहात्प्रजायेते रागद्वेषौ तपस्विन:।
तदैव भावयेत्स्वस्थमात्मानं शाम्यत: क्षणात्॥ ३९॥

यत्र काये मुने: प्रेम तत: प्रच्याव्य देहिनम्।
बुद्ध्या तदुत्तमे काये योजयेत्प्रेम नश्यति॥ ४०॥

आत्म - विभ्रमजं दु:खमात्मज्ञानात्प्रशाम्यति।
नाऽयतास्तत्र निर्वान्ति कृत्वाऽपि परमं तप:॥ ४१॥

शुभं शरीरं दिव्यांश्च विषयानभिवाञ्छति।
उत्पन्नाऽऽत्ममतिर्देहे तत्त्वज्ञानी ततश्च्युतिम्॥ ४२॥

परत्राहम्मति: स्वस्माच्च्युतो बध्नात्यसंशयम्।
स्वस्मिन्नहम्मतिश्च्युत्वा परस्मान्मुच्यते बुध:॥ ४३॥

दृश्यमानमिदं मूढिलिङ्गमवबुध्यते।
इदमित्यवबुद्धस्तु निष्पन्नं शब्दवर्जितम्॥ ४४॥

जानन्नप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि।
पूर्वविभ्रमसंस्काराद् भ्रान्तिं भूयोऽपि गच्छति॥ ४५॥

अचेतनमिदं दृश्यमदृश्यं चेतनं तत:।
क्व रुष्यामि क्व तुष्यामि मध्यस्थोऽहं भवाम्यत:॥

त्यागादाने बहिर्मूढ: करोत्यध्यात्ममात्मवित्।
नान्तर्बहिरुपादानं न त्यागो निष्ठितात्मन:॥ ४७॥

युञ्जीत मनसाऽऽत्मानं वाक्कायाभ्यां वियोजयेत्।
मनसा व्यवहारं तु त्यजेद्वाक्काययोजितम्॥ ४८॥

जगद्देहात्मदृष्टीनां विश्वास्यं रम्यमेव च।
स्वात्मन्येवात्मदृष्टीनां क्व विश्वास: क्व वा रति:॥४९॥

आत्मज्ञानात्परं कार्यं न बुद्धौ धारयेच्चिरम्।
कुर्यादर्थवशात्किञ्चिद्वाक्कायाभ्यामतत्पर:॥ ५०॥

यत्पश्यामीन्द्रियैस्तन्मे नास्ति यन्नियतेन्द्रिय:।
अन्त: पश्यामि सानन्दं तदस्तु ज्योतिरुत्तमम्॥ ५१॥

सुखमारब्धयोगस्य बहिर्दु:खमथात्मनि।
बहिरेवाऽसुखं सौख्यमध्यात्मं भावितात्मन:॥ ५२॥

तद् ब्रूयात्तत्परान् पृच्छेत्तदिच्छेत्तत्परो भवेत्।
येनाऽविद्यामयं रूपं त्यक्त्वा विद्यामयं व्रजेत्॥ ५३॥

शरीरे वाचि चात्मानं सन्धत्ते वाक्शरीरयो:।
भ्रान्तोऽभ्रान्त: पुनस्तत्त्वं पृथगेषां निबुध्यते॥ ५४॥

न तदस्तीन्द्रियार्थेषु यत्क्षेमङ्करमात्मन:।
तथापि रमते बालस्तत्रैवाज्ञानभावनात्॥ ५५॥

चिरं सुषुप्तास्तमसि मूढात्मान: कुयोनिषु।
अनात्मीयात्मभूतेषु ममाहमिति जाग्रति॥ ५६॥

पश्येन्निरन्तरं देहमात्मनोऽनात्मचेतसा।
अपरात्मधियाऽन्येषामात्मतत्त्वे व्यवस्थित:॥ ५७॥

अज्ञापितं न जानन्ति यथा मां ज्ञापितं तथा।
मूढात्मानस्ततस्तेषां वृथा मे ज्ञापनश्रम:॥ ५८॥

यद्बोधयितुमिच्छामि तन्नाहं यदहं पुन:।
ग्राह्यं तदपि नान्यस्य तत्किमन्यस्य बोधये॥ ५९॥

बहिस्तुष्यति मूढात्मा पिहितज्योतिरन्तरे।
तुष्यत्यन्त: प्रबुद्धात्मा बहिव्र्यावृत्तकौतुक:॥ ६०॥

न जानन्ति शरीराणि सुखदु:खान्यबुद्धय:।
निग्रहानुग्रहधियं तथाप्यत्रैव कुर्वते ॥ ६१॥

स्वबुद्ध्या यावद् गृह्णीयात् कायवाक्चेतसां त्रयम्
संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृति:॥ ६२॥

घने वे यथाऽऽत्मानं न घनं मन्यते तथा।
घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुध:॥ ६३॥

जीर्णे वे यथात्मानं न जीर्णं मन्यते तथा।
जीर्णे स्वदेहेऽप्यात्मानं न जीर्णं मन्यते बुध:॥ ६४॥

नष्टे वे यथाऽऽत्मानं न नष्टं मन्यते तथा।
नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुध:॥ ६५॥

रक्ते वे यथाऽऽत्मानं न रक्तं मन्यते तथा।
रक्ते स्वदेहेऽप्यात्मानं न रक्तं मन्यते बुध:॥ ६६॥

यस्य सस्पन्दमाभाति नि:स्पन्देन समं जगत्।
अप्रज्ञमक्रियाभोगं स शमं याति नेतर: ॥ ६७॥

शरीरकञ्चुकेनात्मा संवृतज्ञानविग्रह:।
नात्मानं बुध्यते तस्माद् भ्रमत्यतिचिरं भवे॥ ६८॥

प्रविशद्गलतां व्यूहे देहेऽणूनां समाकृतौ।
स्थितिभ्रान्त्या प्रपद्यन्ते तमात्मानमबुद्धय:॥ ६९॥

गौर: स्थूल: कृशो वाऽहमित्यङ्गेनाविशेषयन्।
आत्मानं धारयेन्नित्यं केवलज्ञप्तिविग्रहम् ॥ ७०॥

मुक्तिरेकान्तिकी तस्य चित्ते यस्याचला धृति:।
तस्य नैकान्तिकी मुक्तिर्यस्य नास्त्यचला धृति:॥७१॥

जनेभ्यो वाक् तत: स्पन्दो मनसश्चित्तविभ्रमा:।
भवन्ति तस्मात्संसर्गं जनैर्योगी ततस्त्यजेत्॥ ७२॥

ग्रामोऽरण्यमिति द्वेधा निवासोऽनात्मदर्शिनाम्।
दृष्टात्मनां निवासस्तु विविक्तात्मैव निश्चल:॥७३॥

देहान्तरगतेर्बीजं देहेऽस्मिन्नात्मभावना।
बीजं विदेहनिष्पत्तेरात्मन्येवात्मभावना ॥ ७४॥

नयत्यात्मानमात्मैव जन्म निर्वाणमेव च।
गुरुरात्मात्मनस्तस्मान्नान्योऽस्ति परमार्थत:॥७५॥

दृढात्मबुद्धिर्देहादावुत्पश्यन्नाशमात्मन: ।
मित्रादिभिर्वियोगं च बिभेति मरणाद् भृशम् ॥७६॥

आत्मन्येवात्मधीरन्यां शरीरगतिमात्मन:।
मन्यते निर्भयं त्यक्त्वा वं वान्तरग्रहम्॥ ७७॥

व्यवहारे सुषुप्तो य: स जागत्र्यात्मगोचरे।
जागर्ति व्यवहारेऽस्मिन् सुषुप्तश्चात्मगोचरे॥ ७८॥

आत्मानमन्तरे दृष्ट्वा दृष्ट्वा देहादिकं बहि:।
तयोरन्तरविज्ञानादभ्यासादच्युतो भवेत्॥ ७९॥

पूर्वं दृष्टात्मतत्त्वस्य विभात्युन्मत्तवज्जगत्।
स्वभ्यस्तात्मधिय: पश्चात् काष्ठपाषाणरूपवत्॥८०॥

शृण्वन्नप्यन्यत: कामं वदन्नपि कलेवरात्।
नात्मानं भावयेद्भिन्नं यावत्तावन्न मोक्षभाक्॥ ८१॥

तथैव भावयेद्देहाद् व्यावृत्यात्मानमात्मनि।
यथा न पुनरात्मानं देहे स्वप्नेऽपि योजयेत्॥ ८२॥

अपुण्यमव्रतै: पुण्यं व्रतैर्मोक्षस्तयोव्र्यय:।
अव्रतानीव मोक्षार्थी व्रतान्यपि ततस्त्यजेत्॥ ८३॥

अव्रतानि परित्यज्य व्रतेषु परिनिष्ठित:।
त्यजेत्तान्यपि संप्राप्य परमं पदमात्मन:॥ ८४॥

यदन्तर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मन: ।
मूलं दु:खस्य तन्नाशे शिष्टमिष्टं परं पदम्॥ ८५॥

अव्रती व्रतमादाय व्रती ज्ञानपरायण:।
परात्मज्ञानसम्पन्न: स्वयमेव परो भवेत्॥ ८६॥

लिङ्गं देहाश्रितं दृष्टं देह एवात्मनो भव:।
न मुच्यन्ते भवात्तस्मात्ते ये लिङ्गकृताऽऽग्रहा:॥ ८७॥

जातिर्देहाश्रिता दृष्टा देह एवात्मनो भव:।
न मुच्यन्ते भवात्तस्मात्ते ये जातिकृताग्रहा:॥ ८८॥

जातिलिङ्गविकल्पेन येषां च समयाग्रह:।
तेऽपि न प्राप्नुवन्त्येव परमं पदमात्मन:॥ ८९॥

यत्त्यागाय निवर्तन्ते भोगेभ्यो यदवाप्तये।
प्रीतिं तत्रैव कुर्वन्ति द्वेषमन्यत्र मोहिन:॥ ९०॥

अनन्तरज्ञ: सन्धत्ते दृष्टिं पङ्गोर्यथान्धके।
संयोगात् दृष्टिमङ्गेऽपि सन्धत्ते तद्वदात्मन:॥ ९१॥

दृष्टभेदो यथा दृष्टिं पङ्गोरन्धे न योजयेत्।
तथा न योजयेद् देहे दृष्टात्मा दृष्टिमात्मन:॥ ९२॥

सुप्तोन्मत्ताद्यवस्थैव विभ्रमोऽनात्मदर्शिनाम्।
विभ्रमोऽक्षीणदोषस्य सर्वावस्थाऽऽत्मदर्शिन:॥ ९३॥

विदिताऽशेषशोऽपि न जाग्रदपि मुच्यते।
देहात्मदृष्टिज्र्ञातात्मा सुप्तोन्मत्तोऽपि मुच्यते॥ ९४॥

यत्रैवाहितधी: पुंस: श्रद्धा तत्रैव जायते।
यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते॥ ९५॥

यत्रानाहितधी: पुंस: श्रद्धा तस्मान्निवर्तते।
यस्मान्निवर्तते श्रद्धा कुतश्चित्तस्य तल्लय:॥ ९६॥

भिन्नात्मानमुपास्यात्मा परो भवति तादृश:।
वर्तिर्दीपं यथोपास्य भिन्ना भवति तादृशी॥ ९७॥

उपास्यात्मानमेवात्मा जायते परमोऽथवा।
मथित्वाऽऽत्मानमात्मैव जायतेऽग्निर्यथा तरु :॥९८॥

इतीदं भावयेन्नित्यमवाचांगोचरं पदम्।
स्वत एव तदाप्नोति यतो नावर्तते पुन:॥ ९९॥

अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि।
अन्यथा योगतस्तस्मान्न दु:खं योगिनां क्वचित्॥१००॥

स्वप्ने दृष्टे विनष्टेऽपि न नाशोऽस्ति यथात्मन:।
तथा जागरदृष्टेऽपि विपर्यासाविशेषत:॥ १०१॥

अदु:खभावितं ज्ञानं क्षीयते दु:खसन्निधौ।
तस्माद्यथाबलं दु:खैरात्मानं भावयेन्मुनि:॥ १०२॥

प्रयत्नादात्मनो वायुरिच्छाद्वेषप्रवर्तितात्।
वायो: शरीरयन्त्राणि वर्तन्ते स्वेषु कर्मसु॥ १०३॥

तान्यात्मनि समारोप्य साक्षाण्यास्तेऽसुखं जड:।
त्यक्त्वाऽऽरोपं पुनर्विद्वान् प्राप्नोति परमं पदम्॥१०४॥

मुक्त्वा परत्र परबुद्धिमहं धियञ्च,
संसारदु:खजननीं जननाद्विमुक्त:।
ज्योतिर्मयं सुखमुपैति परात्मनिष्ठस्तन्-
मार्गमेतदधिगम्य समाधितन्त्रम्॥१०५॥

Post a Comment

Support Us with a Small Donation