विशापहार स्तोत्र | Vishapahar Stotra (Sanskrit)

स्वात्मस्थित: सर्वगत: समस्त-,
व्यापारवेदी विनिवृत्तसङ्ग:।
प्रवृद्धकालोप्यजरो वरेण्य:,
पायादपायात्पुरुष: पुराण:॥ १॥

परैरचिन्त्यं युगभारमेक:,
स्तोतुं वहन्योगिभिरप्यशक्य:।
स्तुत्योऽद्य मेऽसौ वृषभो न भानो:,
किमप्रवेशे विशति प्रदीप:॥२॥

तत्त्याज शक्र: शकनाभिमानं,
नाहं त्यजामि स्तवनानुबन्धम्।
स्वल्पेन बोधेन ततोऽधिकार्थं,
वातायनेनेव निरूपयामि ॥३॥

त्वं विश्वदृश्वा सकलैरदृश्यो,
विद्वानशेषं निखिलैरवेद्य:।
वक्तुं कियान्कीदृश इत्यशक्य:,
स्तुतिस्ततोऽशक्तिकथा तवास्तु॥ ४॥

व्यापीडितं बालमिवात्मदोषै-
रुल्लाघतां लोकमवापिपस्त्वम्।
हिताहितान्वेषणमान्द्यभाज: ,
सर्वस्य जन्तोरसि बालवैद्य:॥५॥

दाता न हर्ता दिवसं विवस्वा-
नद्यश्व इत्यच्युतदर्शिताश:।
सव्याजमेवं गमयत्यशक्त:,
क्षणेन दत्सेऽभिमतं नताय॥ ६॥

उपैति भक्त्या सुमुखः सुखानि,
त्वयि स्वभावाद्विमुखश्च दु:खं।
सदावदातद्युतिरेकरूप -
स्तयोस्त्वमादर्श इवावभासि॥ ७॥

अगाधताब्धे: स यत: पयोधिर्
मेरोश्च तुङ्गा प्रकृति: स यत्र।
द्यावा पृथिव्यो: पृथुता तथैव,
व्याप त्वदीया भुवनान्तराणि॥ ८॥

तवानवस्था परमार्थतत्त्वं,
त्वया न गीत: पुनरागमश्च।
दृष्टं विहाय त्वमदृष्टमैषीर्
विरुद्धवृत्तोऽपि समञ्जसस्त्वम्॥ ९॥

स्मर: सुदग्धो भवतैव तस्मिन्,
नुद्धूलितात्मा यदि नाम शम्भु:।
अशेत वृन्दोपहतोऽपि विष्णु:,
किं गृह्यते येन भवानजाग:॥ १०॥

स नीरजा: स्यादपरोऽघवान्वा,
तद्दोषकीत्र्यैव न ते गुणित्वं।
स्वतोऽम्बुराशेर्महिमा न देव!,
स्तोकापवादेन जलाशयस्य॥११॥

कर्मस्थितिं जन्तुरनेक भूमिं,
नयत्यमुं सा च परस्परस्य।
त्वं नेतृभावं हि तयोर्भवाब्धौ,
जिनेन्द्र! नौनाविकयोरिवाख्य:॥१२॥

सुखाय दु:खानि गुणाय दोषान्,
धर्माय पापानि समाचरन्ति।
तैलाय बाला: सिकतासमूहं,
निपीडयन्ति स्फुटमत्वदीया:॥१३॥

विषापहारं मणिमौषधानि,
मन्त्रं समुद्दिश्य रसायनं च।
भ्राम्यन्त्यहो न त्वमिति स्मरन्ति,
पर्यायनामानि तवैव तानि॥१४॥

चित्ते न किञ्चित्कृतवानसि त्वं
देव: कृतश्चेतसि येन सर्वम्।
हस्ते कृतं तेन जगद्विचित्रं
सुखेन जीवत्यपि चित्तबाह्य:॥१५॥

त्रिकालतत्त्वं त्वमवैस्त्रिलोकी,
स्वामीतिसंख्यानियतेरमीषाम् ।
बोधाधिपत्यं प्रति नाभविष्यं-,
स्तेऽन्येऽपि चेद्वयाप्स्यदमूनपीदम्॥१६॥

नाकस्य पत्यु: परिकर्म रम्यं,
नागम्यरूपस्य तवोपकारि।
तस्यैव हेतु: स्वसुखस्य भानो-,
रुद्विभ्रतच्छत्रमिवादरेण॥१७॥

क्वोपेक्षकस्त्वं क्व सुखोपदेश:
स चेत्किमिच्छा प्रतिकूलवाद:।
क्वासौ क्व वा सर्वजगत्प्रियत्वं
तन्नो यथातथ्यमवेविचं ते ॥१८॥

तुङ्गात्फलं यत्तदकिंचनाच्च
प्राप्यं समृद्धान्न धनेश्वरादे:।
निरम्भ - सोऽप्युच्चतमादिवाद्रेर्,
नैकापि निर्याति धुनी पयोधे:॥ १९॥

त्रैलोक्यसेवानियमाय दण्डं
दध्रे यदिन्द्रो विनयेन तस्य।
तत्प्रातिहार्यं भवत: कुतस्त्यं
तत्कर्मयोगाद्यदि वा तवास्तु॥ २०॥

श्रिया परं पश्यति साधु नि:स्व:,
श्रीमान्न कश्चित्कृपणं त्वदन्य:।
यथा प्रकाशस्थितमन्धकार-,
स्थायीक्षतेऽसौ न तथा तम:स्थम्॥ २१॥

स्ववृद्धि - नि:श्वासनिमेषभाजि
प्रत्यक्षमात्मानुभवेऽपि मूढ:।
किं चाखिलज्ञेयविवर्तिबोध-,
स्वरूपमध्यक्षमवैति लोक:॥२२॥

तस्यात्मजस्तस्य पितेति देव!,
त्वां येऽवगायन्ति कुलं प्रकाश्य।
तेऽद्यापि नन्वाश्मनमित्यवश्यं,
पाणौ कृतं हेम पुनस्त्यजन्ति॥ २३॥

दत्तस्त्रिलोक्यां पटहोऽभिभूता:,
सुरासुरास्तस्य महान्स लाभ:।
मोहस्य मोहस्त्वयि को विरोद्धु-
र्मूलस्य नाशो बलवद्विरोध:॥ २४॥

मार्गस्त्वयैको ददृशे विमुक्तेश् ,
चतुर्गतीनां गहनं परेण।
सर्वं मया दृष्टमिति स्मयेन
त्वं मा कदाचिद्भुजमालुलोक:॥ २५॥

स्वर्भानुरर्कस्य हविर्भुजोऽम्भ:,
कल्पान्तवातोऽम्बुनिधेर्विघात: ।
संसारभोगस्य वियोगभावो
विपक्षपूर्वाभ्युदयास्त्वदन्ये॥२६॥

अजानतस्त्वां नमत: फलं य-
त्तज्जानतोऽन्यं न तु देवतेति।
हरिन्मणिं काचधिया दधानस्,
तं तस्य बुद्ध्या वहतो न रिक्त:॥२७॥

प्रशस्तवाचश्चतुरा: कषायैर्,
दग्धस्य देवव्यवहारमाहु:।
गतस्य दीपस्य हि नन्दितत्वं,
दृष्टं कपालस्य च मङ्गलत्वम्॥ २८॥

नानार्थमेकार्थमदस्त्वदुक्तं ,
हितं वचस्ते निशमय्य वक्तु:।
निर्दोषतां के न विभावयन्ति,
ज्वरेण मुक्त: सुगम: स्वरेण॥ २९॥

न क्वापि वाञ्छा ववृते च वाक्ते,
काले क्व चित्कोऽपि तथा नियोग:।
न पूरयाम्यम्बुधिमित्युदंशु:,
स्वयं हि शीतद्युतिरभ्युदेति ॥३०॥

गुणा गभीरा: परमा: प्रसन्ना,
बहुप्रकारा बहवस्तवेति।
दृष्टोऽयमन्त: स्तवनेन तेषां,
गुणो गुणानां किमत: परोऽस्ति॥ ३१॥

स्तुत्या परं नाभिमतं हि भक्त्या
स्मृत्या प्रणत्या च ततो भजामि।
स्मरामि देवं प्रणमामि नित्यं
केनाप्युपायेन फलं हि साध्यम्॥३२॥

ततस्त्रिलोकीनगराधिदेवं ,
नित्यं परं ज्योतिरनन्तशक्तिम्।
अपुण्यपापं परपुण्यहेतुं
नमाम्यहं वन्द्यमवन्दितारम्॥३३॥

अशब्दमस्पर्शमरूपगन्धं त्वां
नीरसं तद्विषयावबोधम्।
सर्वस्य मातारममेयमन्यैर्,
जिनेन्द्रमस्मार्यमनुस्मरामि ॥३४॥

अगाधमन्यैर्मनसाप्यलंघ्यं ,
निष्किञ्चनं प्रार्थितमर्थवद्भि:।
विश्वस्य पारं तमदृष्टपारं,
पतिं जनानां शरणं व्रजामि॥ ३५॥

त्रैलोक्यदीक्षागुरवे नमस्ते
यो वर्धमानोऽपि निजोन्नतोऽभूत्।
प्राग्गण्डशैल: पुनरद्रिकल्प:
पश्चान्न मेरु: कुलपर्वतोऽभूत्॥ ३६॥

स्वयं प्रकाशस्य दिवा निशा वा,
न बाध्यता यस्य न बाधकत्वम्।
न लाघवं गौरवमेकरूपं,
वन्दे विभुं कालकलामतीतम्॥ ३७॥

इति स्तुतिं देव विधाय दैन्या-
द्वरं न याचे त्वमुपेक्षकोऽसि।
छाया तरुं संश्रयत: स्वत: स्यात्,
कश्छायया याचितयात्मलाभ:॥३८॥

अथास्ति दित्सा यदि वोपरोध-
स्त्वय्येव सक्तां दिश भक्तिबुद्धिम्।
करिष्यते देव तथा कृपां मे
को वात्मपोष्ये सुमुखो न सूरि:॥ ३९॥

वितरति विहिता यथाकथञ्चि-
ज्जिन विनताय मनीषितानि भक्ति:।
त्वयि नुतिविषया पुनर्विशेषा-
द्दिशति सुखानि यशो धनंजयं च॥४०॥

Post a Comment

Support Us with a Small Donation