वज्रपंज्जर स्तोत्र | Vajrapanjjar Stotra
ॐ परमेष्ठि नमस्कारं, सारं नवपदात्मकं ।
आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।
ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् ।
ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।
ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी ।
ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ।।
ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे ।
एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ।।
सव्वपावप्पासणो, वप्रो वज्रमयो बहिः ।
मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ।।
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं ।
वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।
महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी ।
परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।
यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा ।
तस्य न स्याद् भयं व्याधि राधिश्चापि कदाचन ।।
Image source:
'जैन ध्वज' by KISHAN GOLCHHA, image compressed, is licensed under CC BY-SA 4.0
एक टिप्पणी भेजें