SHIVA SANKALPA UPANISHAD (SHIVA SANKALPAMASTU) | शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु)

येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसंकल्पमस्तु ॥ 1॥

येन कर्माणि प्रचरंति धीरा यतो वाचा मनसा चारु यंति ।
यत्सम्मितमनु संयंति प्राणिनस्तन्मे मनः शिवसंकल्पमस्तु ॥ 2॥

येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वंति विदथेषु धीराः ।
यदपूर्वं यक्षमंतः प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥ 3॥

यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरंतरमृतं प्रजासु ।
यस्मान्न ऋते किंचन कर्म क्रियते तन्मे मनः शिवसंकल्पमस्तु ॥ 4॥

सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव ।
हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसंकल्पमस्तु ॥ 5॥

यस्मिन्नृचः साम यजूषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
यस्मिंश्चित्तं सर्वमोतं प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥ 6॥

यदत्र षष्ठं त्रिशतं सुवीरं यज्ञस्य गुह्यं नवनावमाय्यं (?) ।
दश पंच त्रिंशतं यत्परं च तन्मे मनः शिवसंकल्पमस्तु ॥ 7॥

यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति ।
दूरंगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ 8॥

येन द्यौः पृथिवी चांतरिक्षं च ये पर्वताः प्रदिशो दिशश्च ।
येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः शिवसंकल्पमस्तु ॥ 9॥

येनेदं विश्वं जगतो बभूव ये देवा अपि महतो जातवेदाः ।
तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ 10॥

ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः ।
ते श्रोत्रे चक्षुषी संचरंतं तन्मे मनः शिवसंकल्पमस्तु ॥ 11॥

अचिंत्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत ।
सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसंकल्पमस्तु ॥ 12॥

एका च दश शतं च सहस्रं चायुतं च
नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च ।
समुद्रश्च मध्यं चांतश्च परार्धश्च
तन्मे मनः शिवसंकल्पमस्तु ॥ 13॥

ये पंच पंचदश शतं सहस्रमयुतं न्यर्बुदं च ।
तेऽग्निचित्येष्टकास्तं शरीरं तन्मे मनः शिवसंकल्पमस्तु ॥ 14॥

वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ।
यस्य योनिं परिपश्यंति धीरास्तन्मे मनः शिवसंकल्पमस्तु ॥

यस्येदं धीराः पुनंति कवयो ब्रह्माणमेतं त्वा वृणुत इंदुम् ।
स्थावरं जंगमं द्यौराकाशं तन्मे मनः शिवसंकल्पमस्तु ॥ 16॥

परात् परतरं चैव यत्पराच्चैव यत्परम् ।
यत्परात् परतो ज्ञेयं तन्मे मनः शिवसंकल्पमस्तु ॥ 17॥

परात् परतरो ब्रह्मा तत्परात् परतो हरिः ।
तत्परात् परतोऽधीशस्तन्मे मनः शिवसंकल्पमस्तु ॥ 18॥

या वेदादिषु गायत्री सर्वव्यापी महेश्वरी ।
ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसंकल्पमस्तु ॥ 19॥

यो वै देवं महादेवं प्रणवं पुरुषोत्तमम् ।
यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसंकल्पमस्तु ॥ 20॥

प्रयतः प्रणवोंकारं प्रणवं पुरुषोत्तमम् ।
ॐकारं प्रणवात्मानं तन्मे मनः शिवसंकल्पमस्तु ॥ 21॥

योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज इश्वरः ।
अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसंकल्पमस्तु ॥ 22॥

गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च ।
प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसंकल्पमस्तु ॥ 23॥

त्रियंबकं यजामहे सुगंधिं पुष्टिवर्धनम् ।
उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय
माऽमृतात्तन्मे मनः शिवसंकल्पमस्तु ॥ 24॥

कैलासशिखरे रम्ये शंकरस्य शिवालये ।
देवतास्तत्र मोदंते तन्मे मनः शिवसंकल्पमस्तु ॥ 25॥

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् ।
संबाहुभ्यां नमति संपतत्रैर्द्यावापृथिवी
जनयन् देव एकस्तन्मे मनः शिवसंकल्पमस्तु ॥ 26॥

चतुरो वेदानधीयीत सर्वशास्यमयं विदुः ।
इतिहासपुराणानां तन्मे मन शिवसंकन्ल्पमस्तु ॥ 27॥

मा नो महांतमुत मा नो अर्भकं मा न उक्षंतमुत मा न उक्षितम् ।
मा नो वधीः पितरं मोत मातरं प्रिया मा नः
तनुवो रुद्र रीरिषस्तन्मे मनः शिवसंकल्पमस्तु ॥ 28॥

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मंतः
नमसा विधेम ते तन्मे मनः शिवसंकल्पमस्तु ॥ 29॥

ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिंगलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः
तन्मे मनः शिवसंकल्पमस्तु ॥ 30॥

कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे ।
वोचेम शंतमं हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय
नमो अस्तु तन्मे मनः शिवसंकल्पमस्तु ॥ 31॥

ब्रह्म जज्ञानं प्रथमं पुरस्तात् वि सीमतः सुरुचो वेन आवः ।
स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिं
असतश्च विवस्तन्मे मनः शिवसंकल्पमस्तु ॥ 32॥

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसंकल्पमस्तु ॥ 33॥

य आत्मदा बलदा यस्य विश्वे उपासते प्रशिषं यस्य देवाः ।
यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय
हविषा विधेम तन्मे मनः शिवसंकल्पमस्तु ॥ 34॥

यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश ।
तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसंकल्पमस्तु ॥ 35॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं
तन्मे मनः शिवसंकल्पमस्तु ॥ 36॥

य इदं शिवसंकल्पं सदा ध्यायंति ब्राह्मणाः ।
ते परं मोक्षं गमिष्यंति तन्मे मनः शिवसंकल्पमस्तु ॥ 37॥

इति शिवसंकल्पमंत्राः समाप्ताः ।
(शैव-उपनिषदः)

इति शिवसंकल्पोपनिषत् समाप्त ।

Post a Comment

Support Us with a Small Donation