अष्टादश शक्तिपीठ स्तोत्रम् | Ashtaadasa Shaktipeetha Stotram

अष्टादश शक्तिपीठ स्तोत्रम् | Ashtaadasa Shaktipeetha Stotram


लङ्कायां शाङ्करीदेवी कामाक्षी काञ्चिकापुरे ।
प्रद्युम्ने शृङ्खलादेवी चामुण्डी क्रौञ्चपट्टणे ॥ 1 ॥

अलम्पुरे जोगुलाम्बा श्रीशैले भ्रमराम्बिका ।
कॊल्हापुरे महालक्ष्मी मुहुर्ये एकवीरा ॥ 2 ॥

उज्जयिन्यां महाकाली पीठिकायां पुरुहूतिका ।
ओढ्यायां गिरिजादेवी माणिक्या दक्षवाटिके ॥ 3 ॥

हरिक्षेत्रे कामरूपी प्रयागे माधवेश्वरी ।
ज्वालायां वैष्णवीदेवी गया माङ्गल्यगौरिका ॥ 4 ॥

वारणाश्यां विशालाक्षी काश्मीरेतु सरस्वती ।
अष्टादश सुपीठानि योगिनामपि दुर्लभम् ॥ 5 ॥

सायङ्काले पठेन्नित्यं सर्वशत्रुविनाशनम् ।
सर्वरोगहरं दिव्यं सर्वसम्पत्करं शुभम् ॥ 6 ॥

Post a Comment

Support Us with a Small Donation